Sukta 8.100
सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे । हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥
सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ । हना॑व वृ॒त्रं रि॒णचा॑व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ॥
sákhe víṣṇo vi-taráṃ ví kramasva dyáur dehi lókaṃ vájrāya vi-skábhe | hánāva vṛtráṃ riṇácāva síndhūn índrasya yantu prasavé vi-sṛṣṭāḥ ||
O friend Viṣṇu, stride out more widely; O Heaven, grant the space—prop it open for the thunder-force. Let us slay Vṛtra; let us set free the rivers: released by the impulsion, may they flow forth for Indra.
सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ । द्यौः । दे॒हि । लो॒कम् । वज्रा॑य । वि॒ऽस्कभे॑ । हना॑व । वृ॒त्रम् । रि॒णचा॑व । सिन्धू॑न् । इन्द्र॑स्य । य॒न्तु॒ । प्र॒ऽस॒वे । विऽसृ॑ष्टाः ॥सखे । विष्णो इति । वितरम् । वि । क्रमस्व । द्यौः । देहि । लोकम् । वज्राय । विस्कभे । हनाव । वृत्रम् । रिणचाव । सिन्धून् । इन्द्रस्य । यन्तु । प्रसवे । विसृष्टाः ॥sakhe | viṣṇo iti | vi-taram | vi | kramasva | dyauḥ | dehi | lokam | vajrāya | vi-skabhe | hanāva | vṛtram | riṇacāva | sindhūn | indrasya | yantu | pra-save | vi-sṛṣṭāḥ