Sukta 8.1
अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः । शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥
अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः । शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥
ánv asya sthūráṃ dadṛśe purástād anasthá ū́rur avarámbamāṇaḥ | śáśvatī nā́ry abhícakṣyā́ha súbhadram arya bhójanaṃ bibharṣi ||
I saw his massive form in front, as he leaned down with a firm thigh, unshaken. A constant woman, seeing him, spoke: ‘O noble one, thou bearest a fortunate nourishment’—the sustaining fullness that supports the journey.
अनु॑ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒ऽरम्ब॑माणः । शश्व॑ती । नारी॑ । अ॒भि॒ऽचक्ष्य॑ । आ॒ह॒ । सुऽभ॑द्रम् । अ॒र्य॒ । भोज॑नम् । बि॒भ॒र्षि॒ ॥अनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवरम्बमाणः । शश्वती । नारी । अभिचक्ष्य । आह । सुभद्रम् । अर्य । भोजनम् । बिभर्षि ॥anu | asya | sthūram | dadṛśe | purastāt | anasthaḥ | ūruḥ | ava-rambamāṇaḥ | śaśvatī | nārī | abhi-cakṣya | āha | su-bhadram | arya | bhojanam | bibharṣi