Sukta 8.1
इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् । शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम् ॥
इन्द्रा॑य॒ सु म॒दिन्त॑मं॒ सोमं॑ सोता॒ वरे॑ण्यम् । श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युम् ॥
índrāya sú madíntamam sómam sotā́ váreṇyam | śakrá eṇaṃ pīpayad víśvayā dhiyā́ hinvānáṃ ná vāja-yúm ||
Press for Indra the most rousing Soma, worthy of choice; may the Strong One make it swell in us with the all-embracing thought, driving it forward like a seeker of plenitude-force.
इन्द्रा॑य । सु । म॒दिन्ऽत॑मम् । सोम॑म् । सो॒त॒ । वरे॑ण्यम् । श॒क्रः । ए॒ण॒म् । पी॒प॒य॒त् । विश्व॑या । धि॒या । हि॒न्वा॒नम् । न । वा॒ज॒ऽयुम् ॥इन्द्राय । सु । मदिन्तमम् । सोमम् । सोत । वरेण्यम् । शक्रः । एणम् । पीपयत् । विश्वया । धिया । हिन्वानम् । न । वाजयुम् ॥indrāya | su | madin-tamam | somam | sota | vareṇyam | śakraḥ | eṇam | pīpayat | viśvayā | dhiyā | hinvānam | na | vāja-yum