Sukta 7.96
पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः । भक्षीमहि प्रजामिषम् ॥
पी॒पि॒वांसं॒ सर॑स्वत॒: स्तनं॒ यो वि॒श्वद॑र्शतः । भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥
pīpivā́ṃsaṃ sárasvataḥ stánaṃ yó viśvádarśataḥ | bhakṣī́mahi prajā́m íṣam ||
May we partake of the full udder of Sarasvat, the breast that is seen by all—may we eat and receive progeny and the sustaining force of fulfillment.
पी॒पि॒ऽवांस॑म् । सर॑स्वतः । स्तन॑म् । यः । वि॒श्वऽद॑र्शतः । भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥पीपिवांसम् । सरस्वतः । स्तनम् । यः । विश्वदर्शतः । भक्षीमहि । प्रजाम् । इषम् ॥pīpi-vāṃsam | sarasvataḥ | stanam | yaḥ | viśva-darśataḥ | bhakṣīmahi | pra-jām | iṣam