Sukta 7.89
यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥
यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३॒॑श्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥
yát kiṃ cedáṃ varuṇa daívyé jáne ’bhí-drohaṃ manuṣyā́ś cárāmasi | ácittī yát táva dhármā yuyópim mā́ nas tásmād énaso deva rīriṣaḥ ||
Whatever in this divine race, O Varuṇa, we humans may practise as hostile betrayal—if through unseeing we have violated your law—do not, O God, from that sin injure us; loosen it away from us.
यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्याः॑ । चरा॑मसि । अचि॑त्ती । यत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । नः॒ । तस्मा॑त् । एन॑सः । दे॒व॒ । रि॒रि॒षः॒ ॥यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिद्रोहम् । मनुष्याः । चरामसि । अचित्ती । यत् । तव । धर्म । युयोपिम । मा । नः । तस्मात् । एनसः । देव । रिरिषः ॥yat | kim | ca | idam | varuṇa | daivye | jane | abhi-droham | manuṣyāḥ | carāmasi | ac ittī | yat | tava | dharma | yuyopima | mā | naḥ | tasmāt | enasaḥ | deva | ririṣaḥ