Sukta 7.87
यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः । अनु व्रतान्यदितेॠधन्तो यूयं पात स्वस्तिभिः सदा नः ॥
यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः । अनु॑ व्र॒तान्यदि॑तेॠ॒धन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
yó mṛḷáyāti cakrúṣe cid ā́go vayáṃ syāma váruṇe anā́gāḥ | ánu vratā́ny áditer ṛdhánto yūyáṃ pāta svastíbhíḥ sádā naḥ ||
He who can show mercy even to one who has done wrong—may we become, O Varuṇa, free from fault. Growing by the laws of Aditi, in harmony with the vastness, do you guard us always with states of well-being and right-going.
यः । मृ॒ळया॑ति । च॒कुषे॑ । चि॒त् । आगः॑ । व॒यम् । स्या॒म॒ । वरु॑णे । अना॑गाः । अनु॑ । व्र॒तानि॑ । अदि॑तेः । ऋ॒धन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥यः । मृळयाति । चकुषे । चित् । आगः । वयम् । स्याम । वरुणे । अनागाः । अनु । व्रतानि । अदितेः । ऋधन्तः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥yaḥ | mṛḷayāti | cakuṣe | cit | āgaḥ | vayam | syāma | varuṇe | anāgāḥ | anu | vratāni | aditeḥ | ṛdhantaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ