Sukta 7.87
रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । सर्गो न सृष्टो अर्वतीॠतायञ्चकार महीरवनीरहभ्यः ॥
रद॑त्प॒थो वरु॑ण॒: सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् । सर्गो॒ न सृ॒ष्टो अर्व॑तीॠता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥
rádat pátho váruṇaḥ sū́ryāya prá ā́rṇāṃsi samudríyā nadī́nām | sárgo ná sṛṣṭó árvātīr ṛtā-yáñ cakā́ra mahī́r avanī́r áha-bhyaḥ ||
Varuṇa has hewn out the paths for the Sun; he has set forth the flood-currents of the rivers that run to the ocean. Like a release once loosed, he made the streaming waters move in the line of ṛta; he fashioned the great fields of earth for the days—so life may proceed in ordered wideness.
रद॑त् । प॒थः । वरु॑णः । सूर्या॑य । प्र । अर्णां॑सि । स॒मु॒द्रिया॑ । न॒दीना॑म् । सर्गः॑ । न । सृ॒ष्टः । अर्व॑तीः । ऋ॒त॒ऽयन् । च॒कार॑ । म॒हीः । अ॒वनीः॑ । अह॑ऽभ्यः ॥रदत् । पथः । वरुणः । सूर्याय । प्र । अर्णांसि । समुद्रिया । नदीनाम् । सर्गः । न । सृष्टः । अर्वतीः । ऋतयन् । चकार । महीः । अवनीः । अहभ्यः ॥radat | pathaḥ | varuṇaḥ | sūryāya | pra | arṇāṃsi | samudriyā | nadīnām | sargaḥ | na | sṛṣṭaḥ | arvatīḥ | ṛta-yan | cakāra | mahīḥ | avanīḥ | aha-bhyaḥ