Sukta 7.85
स सुक्रतुॠतचिदस्तु होता य आदित्य शवसा वां नमस्वान् । आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् ॥
स सु॒क्रतु॑ॠत॒चिद॑स्तु॒ होता॒ य आ॑दित्य॒ शव॑सा वां॒ नम॑स्वान् । आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ॥
sá su-krátur ṛta-cíd astu hóta yá ādityā śávasā vāṃ námasvān | āvavártat ávase vāṃ havíṣmān ásad ít sá suvitā́ya práyasvān ||
May he be the priest of good will and truth-awareness, who, O Ādityas, with force bows to you. Turning again toward your help with the offering, may he indeed sit firm for the right impulsion and progress toward the true unfolding.
सः । सु॒ऽक्रतुः॑ । ऋ॒त॒ऽचित् । अ॒स्तु॒ । होता॑ । यः । आ॒दि॒त्या॒ । शव॑सा । वा॒म् । नम॑स्वान् । आ॒ऽव॒वर्त॑त् । अव॑से । वा॒म् । ह॒विष्मा॑न् । अस॑त् । इत् । सः । सु॒वि॒ताय॑ । प्रय॑स्वान् ॥सः । सुक्रतुः । ऋतचित् । अस्तु । होता । यः । आदित्या । शवसा । वाम् । नमस्वान् । आववर्तत् । अवसे । वाम् । हविष्मान् । असत् । इत् । सः । सुविताय । प्रयस्वान् ॥saḥ | su-kratuḥ | ṛta-cit | astu | hotā | yaḥ | ādityā | śavasā | vām | namasvān | āvavartat | avase | vām | haviṣmān | asat | it | saḥ | suvitāya | prayasvān