Sukta 7.78
प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते । उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥
प्रति॑ के॒तव॑: प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अ॒ञ्जयो॒ वि श्र॑यन्ते । उषो॑ अ॒र्वाचा॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं॑ वक्षि ॥
práti ketávaḥ prathamā́ adṛśrann ūrdhvā́ asyā́ añjáyo ví śrayante | uṣo arvā́cā bṛhatā́ ráthena jyótiṣmatā vāmám asmábhyaṃ vakṣi ||
The first herald-signs become visible; her uplifted splendours spread out. O Dawn, come toward us on thy wide chariot, full of light, and bring to us what is desirable—those luminous felicities that lead the soul forward.
प्रति॑ । के॒तवः॑ । प्र॒थ॒माः । अ॒दृ॒श्र॒न् । ऊ॒र्ध्वाः । अ॒स्याः॒ । अ॒ञ्जयः॑ । वि । श्र॒य॒न्ते॒ । उषः॑ । अ॒र्वाचा॑ । बृ॒ह॒ता । रथे॑न । ज्योति॑ष्मता । वा॒मम् । अ॒स्मभ्य॑म् । व॒क्षि॒ ॥प्रति । केतवः । प्रथमाः । अदृश्रन् । ऊर्ध्वाः । अस्याः । अञ्जयः । वि । श्रयन्ते । उषः । अर्वाचा । बृहता । रथेन । ज्योतिष्मता । वामम् । अस्मभ्यम् । वक्षि ॥prati | ketavaḥ | prathamāḥ | adṛśran | ūrdhvāḥ | asyāḥ | añjayaḥ | vi | śrayante | uṣaḥ | arvācā | bṛhatā | rathena | jyotiṣmatā | vāmam | asmabhyam | vakṣi