Sukta 7.6
आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य । आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥
आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य । आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥
ā́ devó dade budhnyā́ vásūni vaiśvānará úd itā sū́ryasya | ā́ samudrā́d avarā́d ā́ parasmā́d ā́gnír dade divá ā́ pṛthivyā́ḥ ||
The divine One gives the deep-founded riches; Vaiśvānara gives from the rising of the Sun. From the lower ocean and from the farther beyond, Agni gives—from Heaven down to Earth.
आ । दे॒वः । द॒दे॒ । बु॒ध्न्या॑ । वसू॑नि । वै॒श्वा॒न॒रः । उत्ऽइ॑ता । सूर्य॑स्य । आ । स॒मु॒द्रात् । अव॑रात् । आ । पर॑स्मात् । आ । अ॒ग्निः । द॒दे॒ । दि॒वः । आ । पृ॒थि॒व्याः ॥आ । देवः । ददे । बुध्न्या । वसूनि । वैश्वानरः । उत्इता । सूर्यस्य । आ । समुद्रात् । अवरात् । आ । परस्मात् । आ । अग्निः । ददे । दिवः । आ । पृथिव्याः ॥ā | devaḥ | dade | budhnyā | vasūni | vaiśvānaraḥ | ut-itā | sūryasya | ā | samudrāt | avarāt | ā | parasmāt | ā | agniḥ | dade | divaḥ | ā | pṛthivyāḥ