Sukta 7.56
सा विट् सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम् ॥
सा विट् सु॒वीरा॑ म॒रुद्भि॑रस्तु स॒नात्सह॑न्ती॒ पुष्य॑न्ती नृ॒म्णम् ॥
sā́ víṭ suvī́rā marúdbhir astu sanā́t sáhantī púṣyantī nṛ́mṇam ||
May that clan-settlement be rich in heroes with the Maruts—enduring from of old, conquering, increasing the force of manhood and luminous might (nṛmṇa).
सा । विट् । सु॒ऽवीरा॑ । म॒रुत्ऽभिः॑ । अ॒स्तु॒ । स॒नात् । सह॑न्ती । पुष्य॑न्ती । नृ॒म्णम् ॥सा । विट् । सुवीरा । मरुत्भिः । अस्तु । सनात् । सहन्ती । पुष्यन्ती । नृम्णम् ॥sā | viṭ | su-vīrā | marut-bhiḥ | astu | sanāt | sahantī | puṣyantī | nṛmṇam