Sukta 7.56
क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥
क ईं॒ व्य॑क्ता॒ नर॒: सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वा॑: ॥
ká īṁ vyàktā nárāḥ sánīḷā rudrásya máryā ádha sváśvāḥ ||
Who indeed are those manifest powers, the heroic men of Rudra, dwelling together in one nest, now with their own swift steeds—who are they that come as a single force?
के । ई॒म् । विऽअ॑क्ताः । नरः॑ । सऽनी॑ळाः । रु॒द्रस्य॑ । मर्याः॑ । अध॑ । सु॒ऽअश्वाः॑ ॥के । ईम् । विअक्ताः । नरः । सनीळाः । रुद्रस्य । मर्याः । अध । सुअश्वाः ॥ke | īm | vi-aktāḥ | naraḥ | sa-nīḷāḥ | rudrasya | maryāḥ | adha | su-aśvāḥ