Sukta 7.48
नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः । समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥
नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषा॑: । सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
nū́ devāso várīvaḥ kartana no bhū́t no víśve’vase sajóṣāḥ | sám asmē íṣaṃ vásavo dadīrann yūyám pāta svastíbhiḥ sadā́ naḥ ||
Now, O gods, make for us the wide free space; be all of you united for our help. May the Vasus bestow upon us the impulsion and plenty; and you—guard us always with your well-being.
नु । दे॒वा॒सः॒ । वरि॑वः । क॒र्त॒न॒ । नः॒ । भू॒त । नः॒ । विश्वे॑ । अव॑से । स॒ऽजोषाः॑ । सम् । अ॒स्मे इति॑ । इष॑म् । वस॑वः । द॒दी॒र॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । देवासः । वरिवः । कर्तन । नः । भूत । नः । विश्वे । अवसे । सजोषाः । सम् । अस्मे इति । इषम् । वसवः । ददीरन् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥nu | devāsaḥ | varivaḥ | kartana | naḥ | bhūta | naḥ | viśve | avase | sa-joṣāḥ | sam | asme iti | iṣam | vasavaḥ | dadīran | yūyam | pāta | svasti-bhiḥ | sadā | naḥ