Sukta 7.4
आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृताँ अतारीत् । तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥
आ यो योनिं॑ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॒॑ग्निर॒मृताँ॒ अता॑रीत् । तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा॑यसं बिभर्ति ॥
ā yó yóniṃ deva-kṛ́taṃ sasā́da kratvā́ hy agnír amṛ́tān átārīt | tám oṣádhīś ca váninaś ca gárbhaṃ bhū́miś ca viśvá-dhāyasaṃ bibharti ||
He who has come to the womb fashioned by the gods—by his conscious power Agni has crossed beyond the immortals. Him the plants and the forests bear as a germ, and Earth too bears him, the all-sustaining, as the hidden seed of her universal becoming.
आ । यः । योनि॑म् । दे॒वऽकृ॑तम् । स॒साद॑ । क्रत्वा॑ । हि । अ॒ग्निः । अ॒मृता॑न् । अता॑रीत् । तम् । ओष॑धीः । च॒ । व॒निनः॑ । च॒ । गर्भ॑म् । भूमिः॑ । च॒ । वि॒श्वऽधा॑यसम् । बि॒भ॒र्ति॒ ॥आ । यः । योनिम् । देवकृतम् । ससाद । क्रत्वा । हि । अग्निः । अमृतान् । अतारीत् । तम् । ओषधीः । च । वनिनः । च । गर्भम् । भूमिः । च । विश्वधायसम् । बिभर्ति ॥ā | yaḥ | yonim | deva-kṛtam | sasāda | kratvā | hi | agniḥ | amṛtān | atārīt | tam | oṣadhīḥ | ca | vaninaḥ | ca | garbham | bhūmiḥ | ca | viśva-dhāyasam | bibharti