Sukta 7.4
एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम । विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम । विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
etā́ no agne saúbhagā didī́hy ápi krátuṃ su-cétasaṃ vatema | víśvā stotṛ́-bhyo gṛṇaté ca santu yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
These felicities shine for us, O Agni; may we choose and follow the conscious will that is luminous in understanding. May all blessings be for the praiser and the singer; and you Powers, guard us always with states of well-being.
ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ । विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एता । नः । अग्ने । सौभगा । दिदीहि । अपि । क्रतुम् । सुचेतसम् । वतेम । विश्वा । स्तोतृभ्यः । गृणते । च । सन्तु । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥etā | naḥ | agne | saubhagā | didīhi | api | kratum | su-cetasam | vatema | viśvā | stotṛ-bhyaḥ | gṛṇate | ca | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ