Sukta 7.20
स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति । वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥
स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ । वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
sá na indra tváyatāyā iṣé dhā́s tmanā́ ca yé maghávāno junánti | vasvī́ ṣú te jaritré astu śaktír yūyáṃ pāta svastíbhíḥ sadā́ naḥ ||
So, O Indra, establish for us the impulsion that is turned wholly toward you—by your own self-power—and also for those bounteous ones who stir the energies. Let there be for your singer a rich strength; and do you protect us always with well-being.
सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ । वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥सः । नः । इन्द्र । त्वयतायै । इषे । धाः । त्मना । च । ये । मघवानः । जुनन्ति । वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ | tmanā | ca | ye | magha-vānaḥ | junanti | vasvī | su | te | jaritre | astu | śaktiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ