Sukta 7.2
विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै । ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥
विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै । ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥
víprā yajñéṣu mā́nuṣeṣu kārú manye vāṃ jā́ta-vedasā yajádhyai | ū́rdhvaṃ no adhvaráṃ kṛtáṃ háveṣu tā́ devéṣu vanatho vā́ryāṇi ||
We are seers in the human sacrifices; as a singer I deem you, O Jātavedas, to be worshipped. Our offering-movement is made upright in the calls; through it you win among the gods the desirable riches—powers and plenitudes for us.
विप्रा॑ । य॒ज्ञेषु॑ । मानु॑षेषु । का॒रू इति॑ । मन्ये॑ । वा॒म् । जा॒तऽवे॑दसा । यज॑ध्यै । ऊ॒र्ध्वम् । नः॒ । अ॒ध्व॒रम् । कृ॒त॒म् । हवे॑षु । ता । दे॒वेषु॑ । व॒न॒थः॒ । वार्या॑णि ॥विप्रा । यज्ञेषु । मानुषेषु । कारू इति । मन्ये । वाम् । जातवेदसा । यजध्यै । ऊर्ध्वम् । नः । अध्वरम् । कृतम् । हवेषु । ता । देवेषु । वनथः । वार्याणि ॥viprā | yajñeṣu | mānuṣeṣu | kārū iti | manye | vām | jāta-vedasā | yajadhyai | ūrdhvam | naḥ | adhvaram | kṛtam | haveṣu | tā | deveṣu | vanathaḥ | vāryāṇi