Sukta 7.2
वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति । सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति । सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥
vánaspate ’vá sṛjópa devā́n agnír havíḥ śamitā́ sūdayāti | séd u hotā́ satyá-taro yajāti yáthā devā́nāṃ jánimāni véda ||
O Lord of the wood, release the gods to come near. Agni, the arranger of the offering, sets the oblation in its right course. Then the Hotṛ, more true in his truth, sacrifices—because he knows the births and becomings of the gods.
वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ । सः । इत् । ऊँ॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥वनस्पते । अव । सृज । उप । देवान् । अग्निः । हविः । शमिता । सूदयाति । सः । इत् । ऊँ इति । होता । सत्यतरः । यजाति । यथा । देवानाम् । जनिमानि । वेद ॥vanaspate | ava | sṛja | upa | devān | agniḥ | haviḥ | śamitā | sūdayāti | saḥ | it | oṃ iti | hotā | satya-taraḥ | yajāti | yathā | devānām | janimāni | veda