Sukta 7.18
आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान । अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे ॥
आ॒ध्रेण॑ चि॒त्तद्वेकं॑ चकार सिं॒ह्यं॑ चि॒त्पेत्वे॑ना जघान । अव॑ स्र॒क्तीर्वे॒श्या॑वृश्च॒दिन्द्र॒: प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे॑ ॥
ādhreṇa cit tád vékaṁ cakāra siṁhyáṁ cit pétvenā jaghāna | áva sraktī́r veśyā́vṛścad índraḥ práyachad víśvā bhójanā sudā́se ||
Even with the ‘weak’ instrument he made it a single decisive act; even the leonine force he struck down with a mere blow. Indra cut away the hanging fetters of the common life and delivered all the powers of enjoyment and nourishment to Sudās, the right giver in us.
आ॒ध्रेण॑ । चि॒त् । तत् । ऊँ॒ इति॑ । एक॑म् । च॒का॒र॒ । सिं॒ह्य॑म् । चि॒त् । पेत्वे॑न । ज॒घा॒न॒ । अव॑ । स्र॒क्तीः । वे॒श्या॑ । अ॒वृ॒श्च॒त् । इन्द्रः॑ । प्र । अ॒य॒च्छ॒त् । विश्वा॑ । भोज॑ना । सु॒ऽदासे॑ ॥आध्रेण । चित् । तत् । ऊँ इति । एकम् । चकार । सिंह्यम् । चित् । पेत्वेन । जघान । अव । स्रक्तीः । वेश्या । अवृश्चत् । इन्द्रः । प्र । अयच्छत् । विश्वा । भोजना । सुदासे ॥ādhreṇa | cit | tat | oṃ iti | ekam | cakāra | siṃhyam | cit | petvena | jaghāna | ava | sraktīḥ | veśyā | avṛścat | indraḥ | pra | ayacchat | viśvā | bhojanā | su-dāse