Sukta 7.18
अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम् । इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः ॥
अ॒र्धं वी॒रस्य॑ शृत॒पाम॑नि॒न्द्रं परा॒ शर्ध॑न्तं नुनुदे अ॒भि क्षाम् । इन्द्रो॑ म॒न्युं म॑न्यु॒म्यो॑ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ॥
ardháṁ vīrásya śṛtápām aníndraṁ párā śárdhantaṁ nunude abhí kṣā́m | índro manyúṁ manyumyó mimāya bhejé pátho vartaníṁ pátyamānaḥ ||
Indra drove back the half-strength of the warrior—those who are without the Indra-force—pressing upon the earth-field. He measured out wrath against wrath, and, mastering the ways, he took his chosen path and movement of advance.
अ॒र्धम् । वी॒रस्य॑ । शृ॒त॒ऽपाम् । अ॒नि॒न्द्रम् । परा॑ । शर्ध॑न्तम् । नु॒नु॒दे॒ । अ॒भि । क्षाम् । इन्द्रः । म॒न्युम् । म॒न्यु॒ऽभ्यः॑ । मि॒मा॒य॒ । भे॒जे । प॒थः । व॒र्त॒निम् । पत्य॑मानः ॥अर्धम् । वीरस्य । शृतपाम् । अनिन्द्रम् । परा । शर्धन्तम् । नुनुदे । अभि । क्षाम् । इन्द्रः । मन्युम् । मन्युभ्यः । मिमाय । भेजे । पथः । वर्तनिम् । पत्यमानः ॥ardham | vīrasya | śṛta-pām | anindram | parā | śardhantam | nunude | abhi | kṣām | indraḥ | manyum | manu-myaḥ | mimāya | bheje | pathaḥ | vartanim | patyamānaḥ