Sukta 7.104
इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः । परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥
इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृध॑: । परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिण॑: ॥
indrā́somā tápataṃ rákṣa ubjátam ní arpayataṃ vṛṣaṇā tamo-vṛ́dhaḥ | párā śṛṇītam acíto ní oṣataṃ hatáṃ nudéthāṃ ní śiśītam atríṇaḥ ||
Indra and Soma, blaze forth; crush the hostile darkness-forces; thrust down those who grow by night. Shatter them far away, burn them out who are without the awakened seeing; strike and drive off the devourers—sharpen your power against the destroyers within.
इन्द्रा॑सोमा । तप॑तम् । रक्षः॑ । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒मः॒ऽवृधः॑ । परा॑ । शृ॒णी॒त॒म् । अ॒चितः॑ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः॑ ॥इन्द्रासोमा । तपतम् । रक्षः । उब्जतम् । नि । अर्पयतम् । वृषणा । तमःवृधः । परा । शृणीतम् । अचितः । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्रिणः ॥indrāsomā | tapatam | rakṣaḥ | ubjatam | ni | arpayatam | vṛṣaṇā | tamaḥ-vṛdhaḥ | parā | śṛṇītam | acitaḥ | ni | oṣatam | hatam | nudethām | ni | śiśītam | atriṇaḥ