Sukta 7.102
तस्मा इदास्ये हविर्जुहोता मधुमत्तमम् । इळां नः संयतं करत् ॥
तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम् । इळां॑ नः सं॒यतं॑ करत् ॥
tásmā íd ā́syè havír juhota mádhumattamam | iḷā́ṃ naḥ saṃyátam karat ||
To him, indeed, at his mouth offer the oblation, most filled with sweetness; may he shape for us the ordered Iḷā—the right distribution and increase.
तस्मै॑ । इत् । आ॒स्ये॑ । ह॒विः । जु॒होत॑ । मधु॑मत्ऽतमम् । इळा॑म् । नः॒ । स॒म्ऽयत॑म् । क॒र॒त् ॥तस्मै । इत् । आस्ये । हविः । जुहोत । मधुमत्तमम् । इळाम् । नः । सम्यतम् । करत् ॥tasmai | it | āsye | haviḥ | juhota | madhumat-tamam | iḷām | naḥ | sam-yatam | karat