Sukta 7.102
पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे । स नो यवसमिच्छतु ॥
प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ । स नो॒ यव॑समिच्छतु ॥
parjányāya prá gāyata divás putrā́ya mīḷhúṣe | sá no yávasaṃ icchatu ||
Sing forth to Parjanya, the Son of Heaven, the bountiful giver; may he desire for us the pasture—our sustaining increase.
प॒र्जन्या॑य । प्र । गा॒य॒त॒ । दि॒वः । पु॒त्राय॑ । मी॒ळ्हुषे॑ । सः । नः॒ । यव॑सम् । इ॒च्छ॒तु॒ ॥पर्जन्याय । प्र । गायत । दिवः । पुत्राय । मीळ्हुषे । सः । नः । यवसम् । इच्छतु ॥parjanyāya | pra | gāyata | divaḥ | putrāya | mīḷhuṣe | saḥ | naḥ | yavasam | icchatu