Sukta 7.1
महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् । येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥
म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त॑म् । येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीरा॑: ॥
mahó no agne suvítasya vidvā́n rayíṃ sūríbhya ā́ vahā bṛhántam | yéna vayáṃ sahasāvan mádemāvíkṣitāsa ā́yuṣā suvī́rāḥ ||
O Agni, knowing the vastness of the true good path, bring to us and to our seekers a great plenitude (rayi). By that may we rejoice in the forceful delight, unharmed and unbroken, living out our life with heroic powers.
म॒हः । नः॒ । अ॒ग्ने॒ । सु॒वि॒तस्य॑ । वि॒द्वान् । र॒यिम् । सू॒रिऽभ्यः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् । येन॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । मदे॑म । अवि॑ऽक्षितासः । आयु॑षा । सु॒ऽवीराः॑ ॥महः । नः । अग्ने । सुवितस्य । विद्वान् । रयिम् । सूरिभ्यः । आ । वह । बृहन्तम् । येन । वयम् । सहसावन् । मदेम । अविक्षितासः । आयुषा । सुवीराः ॥mahaḥ | naḥ | agne | suvitasya | vidvān | rayim | sūri-bhyaḥ | ā | vaha | bṛhantam | yena | vayam | sahasāvan | madema | avi-kṣitāsaḥ | āyuṣā | su-vīrāḥ