Sukta 6.75
जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे । अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ । अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥
jīmū́tasyeva bhavati pratī́kaṃ yád varmī́ yā́ti samádām upásthe | anā́viddhayā tanvā̀ jaya tváṃ sá tvā vármaṇo mahimā́ pipartu ||
Like the face of a cloud is the appearance when the armored one goes into the lap of battle. With a body not pierced, win thou; may the greatness of the armor fill thee and make thee whole.
जी॒मूत॑स्यऽइव । भ॒व॒ति॒ । प्रती॑कम् । यत् । व॒र्मी । याति॑ । स॒ऽमदा॑म् । उ॒पऽस्थे॑ । अना॑विद्धया । त॒न्वा॑ । ज॒य॒ । त्वम् । सः । त्वा॒ । वर्म॑णः । म॒हि॒मा । पि॒प॒र्तु॒ ॥जीमूतस्यइव । भवति । प्रतीकम् । यत् । वर्मी । याति । समदाम् । उपस्थे । अनाविद्धया । तन्वा । जय । त्वम् । सः । त्वा । वर्मणः । महिमा । पिपर्तु ॥jīmūtasya-iva | bhavati | pratīkam | yat | varmī | yāti | sa-madām | upa-sthe | anāviddhayā | tanvā | jaya | tvam | saḥ | tvā | varmaṇaḥ | mahimā | pipartu