Sukta 6.6
स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् । चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व ॥
स चि॑त्र चि॒त्रं चि॒तय॑न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् । च॒न्द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ॥
sá citra citráṃ citáyantam asmē citrákṣatra citrátamaṃ vayo-dhā́m | candráṃ rayíṃ puru-vī́raṃ bṛhántam candra candrā́bhir gṛṇaté yúvasva ||
O wondrous One, awaken in us the wondrous seeing; O Lord of varied powers, most marvellous, foundation of plenitudes. Give to the singer a shining wealth, vast and full of many heroic energies—O luminous Agni, foster us with your luminous lights.
सः । चि॒त्र॒ । चि॒त्रम् । चि॒तय॑न्तम् । अ॒स्मे इति॑ । चित्र॑ऽक्षत्र । चि॒त्रऽत॑मम् । व॒यः॒ऽधाम् । च॒न्द्रम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । चन्द्र॑ । च॒न्द्राभिः॑ । गृ॒ण॒ते । यु॒व॒स्व॒ ॥सः । चित्र । चित्रम् । चितयन्तम् । अस्मे इति । चित्रक्षत्र । चित्रतमम् । वयःधाम् । चन्द्रम् । रयिम् । पुरुवीरम् । बृहन्तम् । चन्द्र । चन्द्राभिः । गृणते । युवस्व ॥saḥ | citra | citram | citayantam | asme iti | citra-kṣatra | citra-tamam | vayaḥ-dhām | candram | rayim | puru-vīram | bṛhantam | candra | candrābhiḥ | gṛṇate | yuvasva