Sukta 6.59
इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा । आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥
इन्द्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा । आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ॥
indrā́gnī yuvór ápi vásu divyā́ni pārthívā | ā́ na ihá prá yacchataṃ rayíṃ viśvā́yu-poṣasam ||
O Indra and Agni, yours are the riches—heavenly and earthly; grant to us here a rayi, a fullness that nourishes the whole life and supports the growth of all our being.
इन्द्रा॑ग्नी॒ इति॑ । यु॒वोः । अपि॑ । वसु॑ । दि॒व्यानि॑ । पार्थि॑वा । आ । नः॒ । इ॒ह । प्र । य॒च्छ॒त॒म् । र॒यिम् । वि॒श्वायु॑ऽपोषसम् ॥इन्द्राग्नी इति । युवोः । अपि । वसु । दिव्यानि । पार्थिवा । आ । नः । इह । प्र । यच्छतम् । रयिम् । विश्वायुपोषसम् ॥indrāgnī iti | yuvoḥ | api | vasu | divyāni | pārthivā | ā | naḥ | iha | pra | yacchatam | rayim | viśvāyu-poṣasam