Sukta 6.59
इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता । विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ॥
इन्द्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता । विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥
indrā́gnī uktha-vāhasā stómebhir havana-śrutā | víśvābhir gī́rbhir ā́ gatam asyá sómasya pītáye ||
O Indra and Agni, bearers of the inspired word, hearers of the call: come with all our songs to the drinking of this Soma—enter the offering as powers that uplift the hymn within us.
इन्द्रा॑ग्नी॒ इति॑ । उ॒क्थ॒ऽवा॒ह॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ । विश्वा॑भिः । गीः॒ऽभिः । आ । ग॒त॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥इन्द्राग्नी इति । उक्थवाहसा । स्तोमेभिः । हवनश्रुता । विश्वाभिः । गीःभिः । आ । गतम् । अस्य । सोमस्य । पीतये ॥indrāgnī iti | uktha-vāhasā | stomebhiḥ | havana-śrutā | viśvābhiḥ | gīḥ-bhiḥ | ā | gatam | asya | somasya | pītaye