Sukta 6.59
इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः । मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु ॥
इन्द्रा॑ग्नी॒ आ हि त॑न्व॒ते नरो॒ धन्वा॑नि बा॒ह्वोः । मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्क्तं॒ गवि॑ष्टिषु ॥
indrā́gnī ā́ hí tanváte náro dhanvā́ni bāhvóḥ | mā́ no asmín mahā-dháné párā varktáṃ gaviṣṭíṣu ||
O Indra and Agni, you indeed stretch out the bows in your arms like heroes; do not turn away from us in this great battle, in our seeking of the Rays (cows) of illumination.
इन्द्रा॑ग्नी॒ इति॑ । आ । हि । त॒न्व॒ते । नरः॑ । धन्वा॑नि । बा॒ह्वोः । मा । नः॒ । अ॒स्मिन् । म॒हाऽध॒ने । परा॑ । व॒र्क्त॒म् । गोऽइ॑ष्टिषु ॥इन्द्राग्नी इति । आ । हि । तन्वते । नरः । धन्वानि । बाह्वोः । मा । नः । अस्मिन् । महाधने । परा । वर्क्तम् । गोइष्टिषु ॥indrāgnī iti | ā | hi | tanvate | naraḥ | dhanvāni | bāhvoḥ | mā | naḥ | asmin | mahādhane | parā | varktam | go--iṣṭiṣu