Sukta 6.59
इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः । हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत् ॥
इन्द्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः । हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥
indrā́gnī apā́d iyáṃ pū́rvāgāt padvátībhyaḥ | hitvī́ śíro jihváyā vā́vadac cárat triṃśát padā́ ní akramīt ||
O Indra and Agni, this ancient Power came forth footless from the footed ones; casting away the head, it spoke with the tongue; it moved, walking, and stepped down in thirty strides—so the hidden force breaks the fixed law of limitation.
इन्द्रा॑ग्नी॒ इति॑ । अ॒पात् । इ॒यम् । पूर्वा॑ । आ । अ॒गा॒त् । प॒त्ऽवती॑भ्यः । हि॒त्वी । शिरः॑ । जि॒ह्वया॑ । वाव॑दत् । चर॑त् । त्रिं॒शत् । प॒दा । नि । अ॒क्र॒मी॒त् ॥इन्द्राग्नी इति । अपात् । इयम् । पूर्वा । आ । अगात् । पत्वतीभ्यः । हित्वी । शिरः । जिह्वया । वावदत् । चरत् । त्रिंशत् । पदा । नि । अक्रमीत् ॥indrāgnī iti | apāt | iyam | pūrvā | ā | agāt | pat-vatībhyaḥ | hitvī | śiraḥ | jihvayā | vāvadat | carat | triṃśat | padā | ni | akramīt