Sukta 6.59
प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः । हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥
प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथु॑: । ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इन्द्रा॑ग्नी॒ जीव॑थो यु॒वम् ॥
prá nu vocā suteṣú vāṃ vīryā̀ yā́ni cakráthuḥ | hatā́so vāṃ pitáro devaśátrava índrāgnī jīvathaḥ yuvám ||
Now I declare, in the pressed Soma, the hero-powers you have wrought. Your fathers who were foes to the gods are slain; O Indra-and-Agni, you two live on—active within us as victorious force and flaming will.
प्र । नु । वो॒च॒ । सु॒तेषु॑ । वा॒म् । वी॒र्या॑ । यानि॑ । च॒क्रथुः॑ । ह॒तासः॑ । वा॒म् । पि॒तरः॑ । दे॒वऽश॑त्रवः । इन्द्रा॑ग्नी॒ इति॑ । जीव॑थः । यु॒वम् ॥प्र । नु । वोच । सुतेषु । वाम् । वीर्या । यानि । चक्रथुः । हतासः । वाम् । पितरः । देवशत्रवः । इन्द्राग्नी इति । जीवथः । युवम् ॥pra | nu | voca | suteṣu | vām | vīryā | yāni | cakrathuḥ | hatāsaḥ | vām | pitaraḥ | deva-śatravaḥ | indrāgnī iti | jīvathaḥ | yuvam