Sukta 6.54
सं पूषन्विदुषा नय यो अञ्जसानुशासति । य एवेदमिति ब्रवत् ॥
सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति । य ए॒वेदमिति॒ ब्रव॑त् ॥
sáṁ pū́ṣan vidúṣā naya yó áñjasā́nuśā́sati | yá evédám íti brávat ||
Lead us together, O Pūṣan, by the knowing guidance—he who directs straight along the true path, who declares: ‘this indeed is it.’
सम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति । यः । ए॒व । इ॒दम् इति॑ । ब्रव॑त् ॥सम् । पूषन् । विदुषा । नय । यः । अञ्जसा । अनुशासति । यः । एव । इदम् इति । ब्रवत् ॥sam | pūṣan | viduṣā | naya | yaḥ | añjasā | anu-śāsati | yaḥ | eva | idam iti | bravat