Sukta 6.47
अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके । अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान् ॥
अ॒यं वि॑दच्चित्र॒दृशी॑क॒मर्ण॑: शु॒क्रस॑द्मनामु॒षसा॒मनी॑के । अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ॥
ayáṃ víd ac citradṛ́śīkam árṇaḥ śukrásadmanām uṣásām ánīke | ayáṃ mahā́n mahatā́ skámbhanenódd yā́m astabhnād vṛṣabhó marútvān ||
This found the flood with its many visions, in the bright dwelling-place, in the face of the Dawns. This, the great one, with a mighty pillar-force, propped up heaven aloft—the Bull, companioned by the Maruts.
अ॒यम् । वि॒द॒त् । चि॒त्र॒ऽदृशी॑कम् । अर्णः॑ । शु॒क्रऽस॑द्मनाम् । उ॒षसा॑म् । अनी॑के । अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ॑नेन । उत् । द्याम् । अ॒स्त॒भ्ना॒त् । वृ॒ष॒भः । म॒रुत्वा॑न् ॥अयम् । विदत् । चित्रदृशीकम् । अर्णः । शुक्रसद्मनाम् । उषसाम् । अनीके । अयम् । महान् । महता । स्कम्भनेन । उत् । द्याम् । अस्तभ्नात् । वृषभः । मरुत्वान् ॥ayam | vidat | citra-dṛśīkam | arṇaḥ | śukra-sadmanām | uṣasām | anīke | ayam | mahān | mahatā | skambhanena | ut | dyām | astabhnāt | vṛṣabhaḥ | marutvān