Sukta 6.3
ईजे यज्ञेभिः शशमे शमीभिॠधद्वारायाग्नये ददाश । एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥
ई॒जे य॒ज्ञेभि॑: शश॒मे शमी॑भिॠ॒धद्वा॑राया॒ग्नये॑ ददाश । ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥
ī́je yajñébhiḥ śaśamé śámībhiḥ ṛ́dhat-vārāyā́gnáye dadāśa | evā́ caná táṃ yaśásām ájuṣṭir nā́ṃho mártaṃ naśate ná pra-dṛ́ptiḥ ||
He has worshipped with sacrifices, he has grown calm with pacifying harmonies; he has given to Agni of the widening doors. Thus no rejection by the glorious powers reaches that mortal—neither constriction nor arrogant excess.
ई॒जे । य॒ज्ञेभिः॑ । श॒श॒मे । शमी॑भिः । ऋ॒धत्ऽवा॑राय । अ॒ग्नये॑ । द॒दा॒श॒ । ए॒व । च॒न । तम् । य॒शसा॑म् । अजु॑ष्टिः । न । अंहः॑ । मर्त॑म् । न॒श॒ते॒ । न । प्रऽदृ॑प्तिः ॥ईजे । यज्ञेभिः । शशमे । शमीभिः । ऋधत्वाराय । अग्नये । ददाश । एव । चन । तम् । यशसाम् । अजुष्टिः । न । अंहः । मर्तम् । नशते । न । प्रदृप्तिः ॥īje | yajñebhiḥ | śaśame | śamībhiḥ | ṛdhat-vārāya | agnaye | dadāśa | eva | cana | tam | yaśasām | ajuṣṭiḥ | na | aṃhaḥ | martam | naśate | na | pra-dṛptiḥ