Sukta 6.3
अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे । यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥
अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ । यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंह॑: ॥
agné sá kṣeṣad ṛta-pā́ ṛte-jā́ urú jyótiḥ naśate deva-yúṣṭe | yáṃ tváṃ mitréṇa váruṇaḥ sa-jóṣā deva pā́si tyájasā mártam áṃhaḥ ||
O Agni, he prospers—guardian of the Truth, born of the Truth—who attains the wide Light in the god-beloved (path). Whom thou, O god, with Mitra and Varuṇa in one accord, dost protect by thy victorious strength, that mortal is saved from constriction.
अग्ने॑ । सः । क्षे॒ष॒त् । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । उ॒रु । ज्योतिः॑ । न॒श॒ते॒ । दे॒व॒ऽयुः । ते॒ । यम् । त्वम् । मि॒त्रेण॑ । वरु॑णः । स॒ऽजोषाः । देव॑ । पासि॑ । त्यज॑सा । मर्त॑म् । अंहः॑ ॥अग्ने । सः । क्षेषत् । ऋतपाः । ऋतेजाः । उरु । ज्योतिः । नशते । देवयुः । ते । यम् । त्वम् । मित्रेण । वरुणः । सजोषाः । देव । पासि । त्यजसा । मर्तम् । अंहः ॥agne | saḥ | kṣeṣat | ṛta-pāḥ | ṛte--jāḥ | uru | jyotiḥ | naśate | deva-yuḥ | te | yam | tvam | mitreṇa | varuṇaḥ | sa-joṣāḥ | deva | pāsi | tyajasā | martam | aṃhaḥ