Sukta 6.27
द्वयाँ अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् । अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥
द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ स॒म्राट् । अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना॑म् ॥
dvayā́ṃ agne rathíno viṃśatíṃ gā́ vadhū́mato maghávā máhyaṃ samrā́ṭ | abhyāvartī́ cāyamānó dadāti dūṇā́śeyáṃ dákṣiṇā pārthavā́nām ||
Two chariot-fighters and twenty cows, O Agni—Maghavan the sovereign gives to me; Abhyāvartī and Cāyamāna bestow this gift-offering, a Dakṣiṇā that is hard to diminish, of the Pārthavānas.
द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् । अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनाशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥द्वयान् । अग्ने । रथिनः । विंशतिम् । गाः । वधूमतः । मघवा । मह्यम् । सम्राट् । अभिआवर्ती । चायमानः । ददाति । दुःनाशा । इयम् । दक्षिणा । पार्थवानाम् ॥dvayān | agne | rathinaḥ | viṃśatim | gāḥ | vadhū-mataḥ | magha-vā | mahyam | sam-rāṭ | abhi-āvartī | cāyamānaḥ | dadāti | duḥ-nāśā | iyam | dakṣiṇā | pārthavānām