Sukta 6.26
वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः । प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥
व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठा॑: । प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ॥
vayáṃ te asyā́m indra dyumná-hūtau sákhāyaḥ syāma mahina préṣṭhāḥ | prā́tardániḥ kṣatrá-śrī́r astu śréṣṭho ghané vṛtrā́ṇāṃ sanáye dhánānām ||
May we be your companions, O Indra, in this call of luminous power—most dear to you in your greatness. Let Prātardani, rich in true sovereignty, be the best in the smiting of the obstructers, for the winning of the treasures (the spiritual riches).
व॒यम् । ते॒ । अ॒स्याम् । इ॒न्द्र॒ । द्यु॒म्नऽहू॑तौ । सखा॑यः । स्या॒म॒ । म॒हि॒न॒ । प्रेष्ठाः॑ । प्रात॑र्दनिः । क्ष॒त्र॒ऽश्रीः । अ॒स्तु॒ । श्रेष्ठः॑ । घ॒ने । वृ॒त्राणा॑म् । स॒नये॑ । धना॑नाम् ॥वयम् । ते । अस्याम् । इन्द्र । द्युम्नहूतौ । सखायः । स्याम । महिन । प्रेष्ठाः । प्रातर्दनिः । क्षत्रश्रीः । अस्तु । श्रेष्ठः । घने । वृत्राणाम् । सनये । धनानाम् ॥vayam | te | asyām | indra | dyumna-hūtau | sakhāyaḥ | syāma | mahina | preṣṭhāḥ | prātardaniḥ | kṣatra-śrīḥ | astu | śreṣṭhaḥ | ghane | vṛtrāṇām | sanaye | dhanānām