Sukta 6.26
अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः । त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ ॥
अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोज॑: । त्वया॒ यत्स्तव॑न्ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥
aháṃ caná tát sūríbhir ānaśyāṃ táva jyā́ya indra sumnám ójaḥ | tváyā yát stávante sadha-vīra vīrā́s tri-varū́thena náhuṣā śaviṣṭha ||
May I too attain, with the illumined lords, your greater favour and force, O Indra. By you the heroes, strong together, praise—protected by a triple armour, O most mighty, (in the Nahusha line).
अ॒हम् । च॒न । तत् । सू॒रिऽभिः॑ । आ॒न॒श्या॒न् । तव॑ । ज्यायः॑ । इ॒न्द्र॒ । सु॒म्नम् । ओजः॑ । त्वया॑ । यत् । स्तव॑न्ते । स॒ध॒ऽवी॒र॒ । वी॒राः । त्रि॒ऽवरू॑थेन । नहु॑षा । श॒वि॒ष्ठ॒ ॥अहम् । चन । तत् । सूरिभिः । आनश्यान् । तव । ज्यायः । इन्द्र । सुम्नम् । ओजः । त्वया । यत् । स्तवन्ते । सधवीर । वीराः । त्रिवरूथेन । नहुषा । शविष्ठ ॥aham | cana | tat | sūri-bhiḥ | ānaśyān | tava | jyāyaḥ | indra | sumnam | ojaḥ | tvayā | yat | stavante | sadha-vīra | vīrāḥ | tri-varūthena | nahuṣā | śaviṣṭha