Sukta 6.19
वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम । घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः ॥
व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रो॑:शत्रो॒रुत्त॑र॒ इत्स्या॑म । घ्नन्तो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोता॑: ॥
vayáṃ ta ebhíḥ puruhūta sakhyáiḥ śátróḥ-śátror úttara ít syāma | ghnánto vṛtrā́ṇy ubháyāni śūra rāyā́ madema bṛhatā́ tvāūtā́ḥ ||
With these friendships of yours, O much-invoked, may we become superior to enemy after enemy; striking down the obstructions on both sides, O hero, may we rejoice in the plenitude of being, protected by you in your vastness.
व॒यम् । ते॒ । ए॒भिः । पु॒रु॒ऽहू॒त॒ । स॒ख्यैः । शत्रोः॑ऽशत्रोः । उत्ऽत॑रे । इत् । स्या॒म॒ । घ्नन्तः॑ । वृ॒त्राणि॑ । उ॒भया॑नि । शू॒र॒ । रा॒या । म॒दे॒म॒ । बृ॒ह॒ता । त्वाऽऊ॑ताः ॥वयम् । ते । एभिः । पुरुहूत । सख्यैः । शत्रोःशत्रोः । उत्तरे । इत् । स्याम । घ्नन्तः । वृत्राणि । उभयानि । शूर । राया । मदेम । बृहता । त्वाऊताः ॥vayam | te | ebhiḥ | puru-hūta | sakhyaiḥ | śatroḥ-śatroḥ | ut-tare | it | syāma | ghnantaḥ | vṛtrāṇi | ubhayāni | śūra | rāyā | madema | bṛhatā | tvāūtāḥ