Sukta 6.15
इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः । यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः ॥
इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धस॑: । यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥
imám u tyám atharva-vád agníṃ manthanti vedhásaḥ | yám aṅkūyántam ā́ anayan amū́raṃ śyāvyā́bhyaḥ ||
This very Agni, as Atharvan did, the knowers churn forth; him, as he grows in the churning, they bring forward—unbewildered—out of the dark coverings.
इ॒मम् । ऊँ॒ इति॑ । त्यम् । अ॒थ॒र्व॒ऽवत् । अ॒ग्निम् । म॒न्थ॒न्ति॒ । वे॒धसः॑ । यम् । अ॒ङ्कु॒ऽयन्त॑म् । आ । अन॑यन् । अमू॑रम् । स्या॒व्या॑भ्यः ॥इमम् । ऊँ इति । त्यम् । अथर्ववत् । अग्निम् । मन्थन्ति । वेधसः । यम् । अङ्कुयन्तम् । आ । अनयन् । अमूरम् । स्याव्याभ्यः ॥imam | oṃ iti | tyam | atharva-vat | agnim | manthanti | vedhasaḥ | yam | aṅku-yantam | ā | anayan | amūram | syāvyābhyaḥ