Sukta 6.15
अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् । कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥
अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म् । कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥
agne víśvebhiḥ svanīka deváir ūrṇā́vantaṃ prathamáḥ sīda yónim | kulāyínaṃ ghṛtávantaṃ savitré yajñáṃ naya yajamānā́ya sādhú ||
O Agni, with all the gods of one radiant face, sit first in the womb-seat, full of warm covering; nest-making, rich in clarified light—lead the sacrifice rightly for Savitṛ, for the sacrificer, in the good and straight way.
अग्ने॑ । विश्वे॑भिः । सु॒ऽअ॒नी॒क॒ । दे॒वैः । ऊर्णा॑ऽवन्तम् । प्र॒थ॒मः । सी॒द॒ । योनि॑म् । कु॒ला॒यिन॑म् । घृ॒तऽव॑न्तम् । स॒वि॒त्रे । य॒ज्ञम् । न॒य॒ । यज॑मानाय । सा॒धु ॥अग्ने । विश्वेभिः । सुअनीक । देवैः । ऊर्णावन्तम् । प्रथमः । सीद । योनिम् । कुलायिनम् । घृतवन्तम् । सवित्रे । यज्ञम् । नय । यजमानाय । साधु ॥agne | viśvebhiḥ | su-anīka | devaiḥ | ūrṇāvantam | prathamaḥ | sīda | yonim | kulāyanim | ghṛta-vantam | savitre | yajñam | naya | yajamānāya | sādhu