Sukta 5.79
एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि । या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥
ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो॑ वा॒ दातु॑मर्हसि । या स्तो॒तृभ्यो॑ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा॑ते॒ अश्व॑सूनृते ॥
etā́vad véd uṣas tvaṃ bhū́yo vā dātúm arhasi | yā stotṛ́bhyo vibhāvary ucchántī ná pramī́yase sujāte aśvasūnṛte ||
So much you know, O Dawn; yet you can give still more—since, shining forth for the singers, O Radiant One, you do not fail or diminish: O well-born, bringing swift force and the glad word.
ए॒ताव॑त् । वा॒ । इत् । उ॒षः॒ । त्वम् । भूयः॑ । वा॒ । दातु॑म् । अ॒र्ह॒सि॒ । या । स्तो॒तृऽभ्यः॑ । वि॒भा॒ऽव॒रि॒ । उ॒च्छन्ती॑ । न । प्र॒ऽमीय॑से । सुऽजा॑ते । अश्व॑ऽसूनृते ॥एतावत् । वा । इत् । उषः । त्वम् । भूयः । वा । दातुम् । अर्हसि । या । स्तोतृभ्यः । विभावरि । उच्छन्ती । न । प्रमीयसे । सुजाते । अश्वसूनृते ॥etāvat | vā | ot | uṣaḥ | tvam | bhūyaḥ | vā | dātum | arhasi | yā | stotṛ-bhyaḥ | vibhāvari | ucchantī | na | pra-mīyase | su-jāte | aśva-sūnṛte