Sukta 5.72
आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत् । नि बर्हिषि सदतं सोमपीतये ॥
आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् । नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥
ā́ mitré váruṇe vayáṃ gī́rbhir juhumo atrivát | ní barhíṣi sadatāṃ sóma-pītaye ||
To Mitra and Varuṇa we call with our hymns, as Atri once called; sit down upon the sacred seat within us, for the drinking of Soma—so the delight may be rightly received.
आ । मि॒त्रे । वरु॑णे । व॒यम् । गीः॒ऽभिः । जु॒हु॒मः॒ । अ॒त्रि॒ऽवत् । नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥आ । मित्रे । वरुणे । वयम् । गीःभिः । जुहुमः । अत्रिवत् । नि । बर्हिषि । सदतम् । सोमपीतये ॥ā | mitre | varuṇe | vayam | gīḥ-bhiḥ | juhumaḥ | atri-vat | ni | barhiṣi | sadatam | soma-pītaye