Sukta 5.71
उप नः सुतमा गतं वरुण मित्र दाशुषः । अस्य सोमस्य पीतये ॥
उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुष॑: । अ॒स्य सोम॑स्य पी॒तये॑ ॥
úpa naḥ sutám ā́ gatam varuṇa mítra dāśúṣaḥ | asyá sómasya pītáye ||
Come near to us, to the pressed Soma of the giver; O Varuṇa and Mitra, come for the drinking of this Soma—so the inner delight may be received and ordered in us.
उप॑ । नः॒ । सु॒तम् । आ । ग॒त॒म् । वरु॑ण । मित्र॑ । दा॒शुषः॑ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥उप । नः । सुतम् । आ । गतम् । वरुण । मित्र । दाशुषः । अस्य । सोमस्य । पीतये ॥upa | naḥ | sutam | ā | gatam | varuṇa | mitra | dāśuṣaḥ | asya | somasya | pītaye