Sukta 5.64
उच्छन्त्यां मे यजता देवक्षत्रे रुशद्गवि । सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसम् ॥
उ॒च्छन्त्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि । सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ॥
ucchántyāṃ me yajatā́ deva-kṣátre rúśad-gavi | sutáṃ sómaṃ ná hastíbhir ā́ paṭ́bhir dhā́vataṃ narā bibhrátāv arcanā́nasam ||
At the rising of my offering-flame, O adorable ones with divine sovereignty and shining herds of light, run here on swift courses, as if with powerful hands, to the pressed Soma; O two heroic Powers, bearing the delight of the chant.
उ॒च्छन्त्या॑म् । मे॒ । य॒ज॒ता । दे॒वऽक्ष॑त्रे । रुश॑त्ऽगवि । सु॒तम् । सोम॑म् । न । ह॒स्तिऽभिः॑ । आ । प॒ट्ऽभिः । धा॒व॒त॒म् । न॒रा॒ । बिभ्र॑तौ । अ॒र्च॒नान॑सम् ॥उच्छन्त्याम् । मे । यजता । देवक्षत्रे । रुशत्गवि । सुतम् । सोमम् । न । हस्तिभिः । आ । पट्भिः । धावतम् । नरा । बिभ्रतौ । अर्चनानसम् ॥ucchantyām | me | yajatā | deva-kṣatre | ruśat-gavi | sutam | somam | na | hasti-bhi ḥ | ā | paṭ-bhiḥ | dhāvatam | narā | bibhratau | arcanānasam