Sukta 5.6
नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः । ते स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भर ॥
नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्य॑: सुक्षि॒तीरिष॑: । ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
návā no agna ā́ bhara stotṛ́bhyaḥ sukṣitī́r íṣaḥ | té syāma yá ānṛcús tvā́dūtāso dáme-dame íṣaṃ stotṛ́bhya ā́ bhara ||
Bring us, O Agni, ever-new impulses of increase for the singers—impulses that found a good dwelling. May we be of those who attain by the inspired word, with thee as messenger in every home; bring the increase to the singers.
नवाः॑ । नः॒ । अ॒ग्ने॒ । आ । भ॒र॒ । स्तो॒तृऽभ्यः॑ । सु॒ऽक्षि॒तीः । इषः॑ । ते । स्या॒म॒ । ये । आ॒नृ॒चुः । त्वाऽदू॑तासः । दमे॑ऽदमे । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥नवाः । नः । अग्ने । आ । भर । स्तोतृभ्यः । सुक्षितीः । इषः । ते । स्याम । ये । आनृचुः । त्वादूतासः । दमेदमे । इषम् । स्तोतृभ्यः । आ । भर ॥navāḥ | naḥ | agne | ā | bhara | stotṛ-bhyaḥ | su-kṣitīḥ | iṣaḥ | te | syāma | ye | ānṛcuḥ | tvādūtāsaḥ | dame--dame | iṣam | stotṛ-bhyaḥ | ā | bhara