Sukta 5.6
तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः । ये पत्वभिः शफानां व्रजा भुरन्त गोनामिषं स्तोतृभ्य आ भर ॥
तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधन्त वा॒जिन॑: । ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रन्त॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
táva tye agne arcáyo máhi vrā́dhanta vā́jinaḥ | yé pátvabhiḥ śaphā́nāṃ vrajā́ bhuránta gónām íṣaṃ stotṛ́bhya ā́ bhara ||
Thine, O Agni, are those flames that greatly increase, full of vāja-force; they rush with swift movements, breaking open the enclosures of the hooves, they burst the pens of the luminous herds—bring that increase to the singers.
तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । महि॑ । व्रा॒ध॒न्त॒ । वा॒जिनः॑ । ये । पत्व॑ऽभिः । श॒फाना॑म् । व्र॒जा । भु॒रन्त॑ । गोना॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥तव । त्ये । अग्ने । अर्चयः । महि । व्राधन्त । वाजिनः । ये । पत्वभिः । शफानाम् । व्रजा । भुरन्त । गोनाम् । इषम् । स्तोतृभ्यः । आ । भर ॥tava | tye | agne | arcayaḥ | mahi | vrādhanta | vājinaḥ | ye | patva-bhiḥ | śaphānām | vrajā | bhuranta | gonām | iṣam | stotṛ-bhyaḥ | ā | bhara