Sukta 5.50
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥
viśvó devásya netúr márto vurīta sakhyám | viśvó rāyá iṣudhyati dyumnáṁ vṛṇīta púṣyase ||
Every mortal seeks the friendship of the divine Leader; each one arms himself for the plenitude of inner wealth, choosing luminous power and growth for his increase.
विश्वः॑ । दे॒वस्य॑ । ने॒तुः । मर्तः॑ । वु॒री॒त॒ । स॒ख्यम् । विश्वः॑ । रा॒ये । इ॒षु॒ध्य॒ति॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ ॥विश्वः । देवस्य । नेतुः । मर्तः । वुरीत । सख्यम् । विश्वः । राये । इषुध्यति । द्युम्नम् । वृणीत । पुष्यसे ॥viśvaḥ | devasya | netuḥ | martaḥ | vurīta | sakhyam | viśvaḥ | rāye | iṣudhyati | dyumnam | vṛṇīta | puṣyase