Sukta 5.4
त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम् ॥
त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे अध्व॒रेषु॑ राजन् । त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् ॥
tvā́m agne vásupatim vásūnām abhí prá mandé adhvaréṣu rājan | tváyā vā́jaṃ vājáyanto jayemā́bhí ṣyāma pṛtsutī́r martyā́nām ||
You, O Agni, lord of the riches of being, I invoke with delight in the offerings, O king. By you, increasing the vāja (plenitude of force), may we conquer; may we become overcomers of the mortal battle-pressures.
त्वाम् । अ॒ग्ने॒ । वसु॑ऽपतिम् । वसू॑नाम् । अ॒भि । प्र । म॒न्दे॒ । अ॒ध्व॒रेषु॑ । रा॒ज॒न् । त्वया॑ । वाज॑म् । वा॒ज॒ऽयन्तः॑ । ज॒ये॒म॒ । अ॒भि । स्या॒म॒ । पृ॒त्सु॒तीः । मर्त्या॑नाम् ॥त्वाम् । अग्ने । वसुपतिम् । वसूनाम् । अभि । प्र । मन्दे । अध्वरेषु । राजन् । त्वया । वाजम् । वाजयन्तः । जयेम । अभि । स्याम । पृत्सुतीः । मर्त्यानाम् ॥tvām | agne | vasu-patim | vasūnām | abhi | pra | mande | adhvareṣu | rājan | tvayā | vājam | vāja-yantaḥ | jayema | abhi | syāma | pṛtsutīḥ | martyānām