Sukta 5.3
त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि । अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि ॥
त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि । अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ॥
tvám aryamā́ bhavasi yát kanī́nāṃ nā́ma svadhāvan gúhyaṃ bibharṣi | áñjanti mitráṃ sudhítaṃ ná góbhir yád dámpatī sámanasā kṛṇóṣi ||
You become Aryaman when you bear, O self-lawed one, the secret name of the young powers. They anoint Mitra as with well-placed rays; when you make the two lords of the house one in mind, you establish harmony in the being.
त्वम् । अ॒र्य॒मा । भ॒व॒सि॒ । यत् । क॒नीना॑म् । नाम॑ । स्वधाऽव॑न् । गुह्य॑म् । बि॒भ॒र्षि॒ । अ॒ञ्जन्ति॑ । मि॒त्रम् । सुऽधि॑तम् । न । गोभिः॑ । यत् । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । कृ॒णोषि॑ ॥त्वम् । अर्यमा । भवसि । यत् । कनीनाम् । नाम । स्वधावन् । गुह्यम् । बिभर्षि । अञ्जन्ति । मित्रम् । सुधितम् । न । गोभिः । यत् । दम्पती इति दम्पती । समनसा । कृणोषि ॥tvam | aryamā | bhavasi | yat | kanīnām | nāma | svadhāvan | guhyam | bibharṣi | añjanti | mitram | su-dhitam | na | gobhiḥ | yat | dampatī itidam-patī | sa-manasā | kṛṇoṣi